|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.141. अध्यायः 141
Mahabharata - Vana Parva - Chapter Topics
लोमशचोदनया युधिष्ठिरेण कैलासादिगिरिप्रवेशः ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-141-0x(2228)(21241)
उशीरबीजं मैनाकं गिरिं श्वेतं च भारत।
समतीतोऽसि कौन्तेय कालशैलं च पार्थिव ॥ 3-141-1(21242)
एषा गङ्गा सप्तविधा राजते भरतर्षभ।
स्थानं विरजसं पुण्यं यत्राग्निर्नित्यमिध्यते ॥ 3-141-2(21243)
एतद्वै मानुषेणाद्य न शक्यं द्रष्टुमद्भुतम्।
समाधिं कुरुताव्यग्रास्तीर्थान्येतानि द्रक्ष्यथ ॥ 3-141-3(21244)
एतद्द्रक्ष्यसि देवानामाक्रीडं च रणाङ्कितम्।
अतिक्रान्तोसि कौन्तेय कालशैलं च पर्वतम् ॥ 3-141-4(21245)
श्वेतं गिरिं प्रवेक्ष्यामो मन्दरं चैव पर्वतम्।
यत्र माणिवरो यक्षः कुबेरश्चैव यक्षराट् ॥ 3-141-5(21246)
अष्टाशीतिसहस्राणि गन्धर्वाः शीघ्रगामिनः।
तथा किंपुरुषा राजन्यक्षाश्चैव चतुर्गुणाः ॥ 3-141-6(21247)
अनेकरूपसंस्थाना नानाप्रहरणाश्च ते।
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते ॥ 3-141-7(21248)
तेषामृद्धिरतीवात्र गतौ वायुसमाश्च ते।
यक्षेन्द्रं मनुजश्रेष्ठ माणिभद्रमुपासते ॥ 3-141-8(21249)
तैस्तात बलिभिर्गुप्ता यातुधानैश्च रक्षिताः।
दुर्गमाः पर्वताः पार्थ समाधिं परमं कुरु ॥ 3-141-9(21250)
कुबेरसचिवाश्चान्ये रौद्रा मैत्राश्च राक्षसाः।
तैः समेष्याम कौन्तेय यत्तो विक्रमणे भव ॥ 3-141-10(21251)
कैलासः पर्वतो राजन्पड्योजनशतोच्छ्रितः।
यत्रदेवाः समायान्ति विशाला यत्र भारत ॥ 3-141-11(21252)
असङ्ख्येयास्तु कौन्तेय यक्षराक्षसकिन्नराः।
नागाः सुपर्णा गन्धर्वाः कुबेरसदनं प्रति ॥ 3-141-12(21253)
तान्विगाहस्व पार्थाद्य तपसा च दमेन च।
रक्ष्यमाणो मया राजन्भीमसेनबलेन च ॥ 3-141-13(21254)
स्वस्ति ते वरुणो राजा यमश्च समितिंजयः।
गङ्गा च यमुना चैव पर्वताश्च दिशन्तु ते ॥ 3-141-14(21255)
मरुतश्च सहाश्विभ्यां सरितश्च सरांसि च।
स्वस्ति देवासुरेभ्यश्च वसुभ्यश् महाद्युते ॥ 3-141-15(21256)
इन्द्रस्य जाम्बूनदपर्वताद्वै
शृणोमि घोषं तव देवि गङ्गे।
गोपाययेमं सुभगे गिरिभ्यः
सर्वाजमीढापचितं नरेन्द्रम् ॥ 3-141-16(21257)
ददस्व शर्म प्रविविक्षतोऽस्य
शैलानिमाञ्छैलसुते नृपस्य।
`शिवप्रदा सर्वसरित्प्रधाने
स भ्रातृकस्येह युधिष्ठिरस्य'। 3-141-17(21258)
युधिष्ठिर उवाच। 3-141-18x(2229)
अपूर्वोऽयं संभ्रमो लोमशस्य
कृष्णां च सर्वे रक्षत मा प्रमादः।
देशो ह्ययं दुर्गतमो मतोऽस्य
तस्मात्परं शौचमिहाचरध्वम् ॥ 3-141-18(21259)
वैशम्पायन उवाच। 3-141-19x(2230)
ततोऽब्रवीद्भीममुदारवीर्यं
कृष्णां यत्तः पालय भीमसेन।
शून्येऽर्जुनेऽसन्निहिते च तात
त्वामेव कृष्णा भजते भयेषु ॥ 3-141-19(21260)
ततो महात्मां स यमौ समेत्य
मूर्धन्युपाघ्राय विमृज्यगात्रे।
उवाच तौ बाष्पकलं स राजा
मा बैष्टमागच्छतमप्रमत्तौ ॥ 3-141-20(21261)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकचत्वारिंशदधिकशततमोऽध्यायः ॥ 141 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-141-1 कैलासं चापि पर्वतम् इति क. पाठः ॥ 3-141-2 यत्राग्निर्नित्यमिध्यत इति त्रियोगिनारायणाख्यं हरिद्वारात् परतः स्थानमस्ति ॥ 3-141-11 विशाला वदरी ॥ 3-141-16 इन्द्रस्य इन्द्रसंबन्धिनः। जाम्बूनदं सुवर्णं तन्मयात्पर्वतान्मेरोः। आजमीढवंशे अपचितं पूजितं श्रेष्ठमित्यर्थः ॥ 3-141-17 ददश्व देहि ॥ 3-141-18 शौचं वाङ्यनःकायशुद्धिम् ॥ 3-141-20 भैष्टमिति च्छेदः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|